|
|
 |
 |
|
|
२ सभापर्व.jpg)
॥ श्रीः ॥
2.100. अध्यायः 100
Mahabharata - Sabha Parva - Chapter Topics
युधिष्ठिरेण वनगमनाय भीष्माद्यामन्त्रणम्॥ 1॥ पाण्डवान्प्रति विदुरवचनम्॥ 2॥
Mahabharata - Sabha Parva - Chapter Text
युधिष्ठिर उवाच॥
आमन्त्रयामि भरतांस्तथा वृद्धं पितामहम्॥
राजानं सोमदत्तं च महाराजं च बाह्लिकम्॥ 2-100-1(15438)
द्रोणं कृपं नृपांश्चान्यानश्वत्थामानमेव च।
विदुरं धृतराष्ट्रं च धार्तराष्ट्रांश्च सर्वशः॥ 2-100-3a`सौमदत्तिं महावीर्यं विकर्णं च महामतिम्'।
युयुत्सुं सञ्जयं चैव तथैवान्यान्सभासदः॥ 2-100-4a`गान्धारीं च महाभागां मातरं च तथा पृथाम्'।
सर्वानामन्त्र्य गच्छामि द्रष्टाऽस्मि पुनरेत्य वः॥ 2-100-2(15439)
वैशम्पायन उवाच॥ 2-100-5x(1727)
न च किञ्चिदथोचुस्तं ह्रियाऽऽसन्ना युधिष्ठिरम्।
मनोभिरेव कल्याणं दध्युस्ते तस्य धीमतः॥ 2-100-5(15440)
विदुर उवाच॥ 2-100-6x(1728)
आर्या पृथा राजपुत्री नारण्यं गन्तुमर्हति।
सुकुमारी च वृद्धा च नित्यं चैव सुखोचिता॥ 2-100-6(15441)
इह वत्स्यति कल्याणी सत्कृता मम वेश्मनि।
इति पार्था विजानीध्वमगदं वोऽस्तु सर्वशः॥ 2-100-7(15442)
पाण्डवा ऊचुः। 2-100-8x(1729)
तथेत्युक्त्वाऽब्रुवन्सर्वे यथा नो वदसेऽनघ।
त्वं पितृव्यः पितृसमो वयं च त्वत्परायणाः॥ 2-100-8(15443)
यथाऽऽज्ञापयसे विद्वंस्त्वं हि नः परमो गुरुः।
यच्चान्यदपि कर्तव्यं तद्विधत्स्व महामते॥ 2-100-9(15444)
विदुर उवाच॥ 2-100-10x(1730)
युधिष्ठिर विजानीहि ममेदं भरतर्षभ।
नाधर्मेण जितः कश्चिद्व्यथते वै पराजये॥ 2-100-10(15445)
त्वं वै धर्मं विजानीषे युद्धे जेता धनञ्जयः।
हन्ताऽरीणां भीमसेनो नकुलस्त्वर्थसङ्ग्रही॥ 2-100-11(15446)
संयन्ता सहदेवस्तु धौम्यो ब्रह्मविदुत्तमः।
धर्मार्थकुशला चैव द्रौपदी धर्मचारिणी॥ 2-100-12(15447)
अन्योन्यस्य प्रियाः सर्वे तथैव प्रियदर्शनाः।
परैरभेद्याः सन्तुष्टाः को वोन न स्पृहयेदिह॥ 2-100-13(15448)
एष वै सर्वकल्याणः समाधिस्तव भारत।
नैनं शत्रुर्विषहते शक्रेणापि समोऽप्युत॥ 2-100-14(15449)
हिमवत्यनुशिष्टोऽसि मेरुसावर्णिना पुरा।
द्वैपायनेन कृष्णेन नगरे वारणावते॥ 2-100-15(15450)
भृगुतुङ्गे च रामेण दृष्टद्वत्यां च शम्भुना।
अश्रौषीरसि तस्यापि महर्षेरञ्जनं प्रति॥ 2-100-16(15451)
कल्माषीतीरसंस्थस्य गतस्त्वं शिष्यतां भृगोः।
द्रष्टा सदा नारदस्ते धौम्यस्तेऽयं पुरोहितः॥ 2-100-17(15452)
माहासीः साम्पराये त्वं बुद्धिं तामृषिपूजिताम्।
पुरूरवसमैलं त्वं बुद्ध्या जयसि पाण्डव॥ 2-100-18(15453)
शक्त्या जयसि राज्ञोऽन्यानृषीन्धर्गोपसेवया।
ऐन्द्रे जये धृतमना याम्ये कोपविधारणे॥ 2-100-19(15454)
तथा विसर्गे कौबेरे वारुणे कोपविधारणे॥
आत्मप्रदानं सौम्यत्वमद्भ्यश्चैवोपजीवनम्॥ 2-100-20(15455)
भूमेः क्षमा च तेजश्च समग्रं सूर्यमण्डलात्।
वायोर्बलं प्राप्नुहि त्वं भूतेभ्यश्चात्मसम्पदम्॥ 2-100-21(15456)
अगदं वोऽस्तु भद्रं वो द्रष्टाऽस्मि पुनरागतान्।
आपद्धर्मार्थकृच्छ्रेषु सर्वकार्येषु वा पुनः॥ 2-100-22(15457)
यथावत्प्रतिपद्येथाः काले काले युधिष्ठिर।
आपृष्टोऽसीह कौन्तेय स्वस्ति प्राप्नुहि भारत॥ 2-100-23(15458)
कृतार्थं स्वस्मिमन्तं त्वां द्रक्ष्यामः पुनरागतम्।
न हि वो वृजिनं किञ्चिद्वेद कश्चित्पुराकृतम्॥ 2-100-24(15459)
वैशम्पायन उवाच॥ 2-100-25x(1731)
एवमुक्तस्तथेत्युक्त्वा पाण्डवः सत्यविक्रमः।
भीष्मद्रोणौ नमस्कृत्य प्रातिष्ठत युधिष्ठिरः॥ ॥ 2-100-25(15460)
इति श्रीमन्महाभारते सभापर्वणि अनुद्यातपर्वणि शततमोऽध्यायः॥ 100॥
Mahabharata - Sabha Parva - Chapter Footnotes
2-100-14 समाधिर्मनः स्वास्थ्यकरो नियमः॥ 2-100-19 विधारणे नियमने ॥ 2-100-20 विसर्गे दाने। संयमे वशीकरणे । उपजीवनं जीवनहेतुत्वम्॥

|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|